24. विश्वसृजामयनம் - இதில் ஆயிரம் सम्वत्सरங்கள் सुत्याஹஸ்ஸுக்கள். அவைகளில் 250 - இல் स्तोमம் 9; 250-இல் 15; 250-இல் 17; கடைசி 250-இல் 21. இதில் सम्वत्सरம் என்கிற சொல்லுக்கு நாள் அர்த்தமென்று தீர்மானம் (ताण्ड्य.ब्रा.अध्या-25, खण्डः-18, अध्या-6, पा-7, अधि-13).

ताण्ड्य.ब्रा.अध्या-25, खण्डः-18

पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशा पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम्
एतेन वै विश्वसृज इदं विश्वं असृजन्त यद्विश्वं असृजन्त तस्मात्विश्वसृजः
विश्वं एनाननु प्रजायते य एतदुपयन्ति
तपो गृहपतिर्ब्रह्म ब्रह्मेरा पत्न्यमृतं उद्गाता भूतं प्रस्तोता भविष्यत्प्रतिहर्तर्तव उपगातार आर्तवाः सदस्याः सत्यं होतर्तं मैत्रावरुण ओजो ब्राह्मणाच्छंसी त्विषिश्चापचितिश्च नेष्टापोतारौ यशोऽच्छावाकोऽग्निरेवाग्नीद्भगो ग्रावस्तुदूर्गुन्नेता
वाक्सुब्रह्मण्यः प्राणोऽध्वर्युरपानः प्रतिप्रस्थाता दिष्टिर्विशास्ता बलं ध्रुवगोपं आशा हविष्येष्यहोरात्राविध्मवाहौ मृत्युः शमितैते दीक्षन्ते
तदेष श्लोको विश्वसृजः प्रथमे सत्त्रं आसत सहस्रसमं प्रसुतेन यन्तस्ते ह यज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनां एति
ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतदुपयन्ति तदेतद्विश्वसृजां सहस्रसंवत्सरं एतेन वै विश्वसृजः सर्वां ऋद्धिं आर्ध्नुवन्सर्वां ऋद्धिं ऋध्नुवन्ति य एतदुपयन्ति

मीमांसा - अध्या-6, पा-7, अधि-13 - सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणम्

सहस्रसंवत्सरं तदायुषामसंभवान्मनुष्येषु ॥
अपि वा तदधिकारान्मनुष्यधर्मः स्यात् ॥
नासामर्थ्यात् ॥
सम्बन्धादर्शनात् ॥
स कुलकल्पः स्यादिति कार्ष्णाजिनिरेकस्मिन्नसंभवात् ॥
अपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात् ॥
विप्रतिषेधात्तु गुण्यन्यतरः स्यादिति लावुकायनः ॥
संवत्सरो विचालित्वात् ॥
सा प्रकृतिः स्यादधिकारात् ॥
अहानि वाऽभिसंख्यत्वात् ॥

Go to Main Page